कल्याणमन्दिर स्तोत्र | आचार्य कुमुदचंद

 

कल्याणमन्दिर स्तोत्र

कल्याण- मन्दिरमुदारमवद्य-भेदि

भीताभय-प्रदमनिन्दितमङ्घ्रि- पद्मम् ।

संसार-सागर-निमज्जदशेषु-जन्तु -

पोतायमानमभिनम्य जिनेश्वरस्य ॥१ ॥


यस्य स्वयं सुरगुरुर्गरिमाम्बुराशेः

स्तोत्रं सुविस्तृत-मतिर्न विभुर्विधातुम् ।

तीर्थेश्वरस्य कमठ-स्मय- धूमकेतो-

स्तस्याहमेष किल संस्तवनं करष्येि ॥ २ ॥


सामान्यतोऽपि तव वर्णयितुं स्वरूप-

मस्मादृशः कथमधीश भवन्त्यधीशाः ।

धृष्टोऽपि कौशिक- शिशुर्यदि वा दिवान्धो

रूपं प्ररूपयति किं किल घर्मरश्मेः ॥३ ॥


मोह-क्षयादनुभवन्नपि नाथ मर्त्यो

नूनं गुणान्गणयितुं न तव क्षमेत।

कल्पान्त-वान्त- पयसः प्रकटोऽपि यस्मा-

मीयेत केन जलधेर्ननु रत्नराशिः ॥४ ॥


अभ्युद्यतोऽस्मि तव नाथ जडाशयोऽपि

कर्तुं स्तवं लसदसंख्य-गुणाकरस्य ।

बालोऽपि किं न निज- बाहु-युगं वितत्य

विस्तीर्णतां कथयति स्वधियाम्बुराशेः ॥५ ॥


ये योगिनामपि न यान्ति गुणास्तवेश

वक्तुं कथं भवति तेषु ममावकाशः।

जाता तदेवमसमीक्षित-कारितेयं

जल्पन्ति वा निज-गिरा ननु पक्षिणोऽपि ॥६॥


आस्तामचिन्त्य - महिमा जिन संस्तवस्ते

नामापि पाति भवतो भवतो जगन्ति ।

तीव्रातपोपहत- पान्थ-जनान्निदाघे

प्रीणाति पद्म-सरसः सरसोऽनिलोऽपि ॥७॥


द्वर्तिनि त्वयि विभो शिथलीभवन्ति

जन्तो: क्षणेन निबिडा अपि कर्म-बन्धाः ।

सद्यो भुजङ्गममया इव मध्य-भाग-

मभ्यागते वन-शिखण्डिनि चन्दनस्य ॥८ ॥


मुच्यन्त एव मनुजाः सहसा जिनेन्द्र

रुद्रैरुपद्रव - शतैस्त्वयि वीक्षितेऽपि ।

गो-स्वामिनि स्फुरित-तेजसि दृष्टमात्रे

चौरैरिवाशु पशवः प्रपलायमानैः ॥ ९ ॥


त्वं तारको जिन कथं भविनां त एव

त्वामुद्वहन्ति हृदयेन यदुत्तरन्तः ।

यद्वा दृतिस्तरति यज्जलमेष नून-

मन्तर्गतस्य मरुतः य किलानुभावः ॥१० ॥


यस्मिन्हर-प्रभृतयोऽपि हत - प्रभावः

सोऽपि त्वया रति-पतिः क्षपितः क्षणेन ।

विध्यापिता हुतभुजः पयसाथ येन

पीतं न किं तदपि दुर्धर - वाडवेन ॥११॥


स्वामिन्ननल्प- गरिमाणमपि प्रपन्न-

स्त्वां जन्तवः कथमहो हृदये दधानाः ।

जन्मोदधिं लघु तरन्त्यतिलाघवेन

चिन्त्यो न हन्त महतां यदि वा प्रभाव: ॥१२॥


क्रोधस्त्वया यदि विभो प्रथमं निरस्तो

ध्वस्तास्तदा वद कथं किल कर्म-चौराः ।

प्लोषत्यमुत्र यदि वा शिशिरापि लोके

नील- द्रुमाणि विपिनानि न किं हिमानि ॥१३॥


त्वां योगिनो जिन सदा परमात्मरूप-

मन्वेषयन्ति हृदयाम्बुज- कोष-देशे ।

पूतस्य निर्मल-रुचेर्यदि वा किमन्य-

दक्षस्य सम्भव-पदं ननु कर्णिकायाः ॥१४॥


ध्यानाज्जिनेश भवतो भविनः क्षणेन

देहं विहाय परमात्म- दशां व्रजन्ति ।

तीव्रानलादुपल- भावमपास्य लोके

चामीकरत्वमचिरादिव धातु-भेदाः ॥१५ ॥


अन्तः सदैव जिन यस्य विभाव्यसे त्वं

भव्यैः कथं तदपि नाशयसे शरीरम् ।

एतत्स्वरूपमथ मध्य-विवर्तिनो हि

यद्विग्रहं प्रशमयन्ति महानुभावाः ॥ १६ ॥


आत्मा मनीषिभिरयं त्वदभेद-बुद्ध्या

ध्यातो जिनेद्र भवतीह भवत्प्रभावः।

पानीयमप्यमृतमित्यनुचिन्त्यमानं

किं नाम नो विष-विकारमपाकरोति ॥१७ ॥


त्वामेव वीत-तमसं परवादिनोऽपि

नूनं विभो हरि-हरादि-धिया प्रपन्नाः ।

किं काच- कामलिभिरीश सितोऽपि शङ्खो

नो गृह्यते विविध-वर्ण-विपर्ययेण ॥ १८ ॥


धर्मोपदेश- समये सविधानुभावा-

दास्तां जनो भवति ते तरुरप्यशोकः ।

अभ्युद्गते दिनपतौ समहीरुहोऽपि

किंवा विबोधमुपयाति न जीव-लोकः ॥१९॥


चित्रं विभो कथमवाङ्मुख- वृन्तमेव

विष्वक्पतत्यविरला सुर- पुष्प - वृष्टिः ।

त्वद्गोचरे सुमनसां यदि वा मुनीश

गच्छन्ति नूनमध एव हि बन्धनानि ॥२०॥


स्थाने गभीर - हृदयोदधि-सम्भवायाः

पीयूषतां तव गिरः समुदीरयन्ति ।

पीत्वा यतः परम-सम्मद-सङ्ग- भाजो

भव्या व्रजन्ति तरसाप्यजरामरत्वम् ॥२१॥


स्वामिन्सुदूरमवनम्य समुत्पतन्तो

मन्ये वदन्ति शुचयः सुर - चामरौघा ।

येsस्मै नतिं विदधते मुनि-पुङ्गवाय

ते नूनमूर्ध्व-गतयः खलु शुद्ध-भावाः ॥२२॥


श्यामं गभीर-गिरमुज्ज्वल-हेम-रत्न-

सिंहासनस्थमिह भव्य- शिखण्डिनस्त्वाम् ।

आलोकयन्ति रभसेन नदन्तमुच्चैः

चामीकराद्रि-शिरसीव नवाम्बुवाहम् ॥२३ ॥


उद्गच्छता तव शिति-द्युति- मण्डलेन

लुप्त-च्छद- च्छविरशोक - तरुर्बभूव ।

सान्निध्यतोऽपि यदि वा तव वीतराग !

नीरागतां व्रजति को न सचेतनोऽपि ॥२४॥


भो भोः प्रमादमवधूय भजध्वमेन-

मागत्य निर्वृति-पुरीं प्रति सार्थवाहम् ।

एतन्निवेदयति देव जगत्त्रयाय

मन्ये नदन्नभिनभः सुरदुन्दुभिस्ते ॥२५ ॥


उद्योतितेषु भवता भुवनेषु नाथ

तारान्वितो विधुरयं विहताधिकारः ।

मुक्ताकलाप - कलितोरुसितातपत्र-

व्याजात्त्रिधा धृत-तनुर्ध्रुवमभ्युपेतः ॥२६ ॥


स्वेनं प्रपूरित - जगत्त्रय - पिण्डितेन

कान्ति-प्रताप - यशसामिव संचयेन ।

माणिक्य- हेम - रजत - प्रविनिर्मितेन

सालत्रयेण भगवन्नभितो विभासि ॥२७॥


दिव्य-स्रजो जिन नमत्रिदशाधिपाना-

मुत्सृज्य रत्न- रचितानपि मौलि-बन्धान् ।

पादौ श्रयन्ति भवतो यदि वापरत्र

त्वत्सङ्गमे सुमनसो न रमन्त एव ॥ २८ ॥


त्वं नाथ जन्म- जलधेर्विपराङ्‌मुखोऽपि

यत्तारयस्यसुमतो निज-पृष्ठ-लग्नान् ।

युक्तं हि पार्थिव-निपस्य सतस्तवैव

चित्रं विभो यदसि कर्म-विपाक-शून्यः ॥२९ ॥


विश्वेश्वरोऽपि जन- पालक दुर्गतस्त्वं

किं वाक्षर - प्रकृतिरप्यलिपिस्त्वमीश ।

अज्ञानवत्यपि सदैव कथञ्चिदेव

ज्ञानं त्वयि स्फुरति विश्व-विकास- हेतु ॥ ३० ॥


उत्थापितानि कमठेन शठेन यानि ।

प्राग्भार-सम्भृत-नभांसि रजांसि रोषाद्

छायाऽपि तैस्तव न नाथ हता हताशो

ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा ॥३१॥


यद्गर्जदूर्जित- घनौघमदभ्र - भीम-

भ्रश्यत्तडिन्मुसल-मांसल - घोर-धारम् ।

दैत्येन मुक्तमथ दुस्तरवारि दध्रे,

तेनैव तस्य जिन दुस्तरवारि कृत्यम्॥ ३२॥


ध्वस्तोर्ध्व- केश - विकृताकृति - मर्त्य-मुण्ड-

प्रालम्बभृद्भयदवक्त्र - विनिर्यदग्निः ।

प्रेतव्रजः प्रति भवन्तमपीरितो यः

सोऽस्याभवत्प्रतिभवं भव-दुःख-हेतुः ॥३३॥


धन्यास्त एव भुवनाधिप ये त्रिसन्ध्य-

माराधयन्ति विधिवद्विधुतान्य-कृत्याः ।

भक्त्योल्लसत्पुलक-पक्ष्मल- देह- देशाः

पाद-द्वयं तव विभो भुविजन्मभाजः ॥३४॥


अस्मिन्नपार - भव- वारिनिधौ मुनीश

मन्ये न मे श्रवण-गोचरतां गतोऽसि ।

आकर्णिते तु तव गोत्र- पवित्र - मन्त्रे

किं वा विपद्विषधरी सविधं समेति ॥ ३५ ॥


जन्मान्तरेऽपि तवं पाद-युगं न देव

मन्ये मया महितमीहित-दान-दक्षम् ।

तेनेह जन्मनि मुनीश पराभवानां

जातो निकेतनमहं मथिताशयानाम् ॥३६॥


नूनं न मोह - तिमिरावृत- लोचनेन

पूर्वं सकृदपि प्रविलोकितोऽसि ।

मर्माविधो विधुरयन्ति हि मामनर्थाः

प्रोद्यत्प्रबन्ध - गतयः कथमन्यथैते ॥३७॥


आकर्णितोऽपि महितोऽपि निरीक्षितोऽपि

नूनं न चेतसि मया विधृतोऽसि भक्त्या ।

जातोऽस्मि तेन जन- बान्धव दुःखपात्रं

यस्मात्क्रियाः प्रतिफलन्ति न भाव- शून्याः ॥३८॥


त्वं नाथ ! दुःखि-जन-वत्सल ! हे शरण्य !

कारुण्य- पुण्य - वसते ! वशिनां वरेण्य !

भक्त्या नते मयि महेश ! दयां विहाय

दुःखाडूरोद्दलन - तत्परतां विधेहि ॥ ३९ ॥


निः सख्य-सार- शरणं शरणं शरण्य-

मासाद्य सादित-रिपु-प्रथितावदानम् ।

त्वत्पाद - पङ्कजमपि प्रणिधान - बन्ध्यो

वन्ध्योऽस्मि तद्भवन - पावन हा हतोऽस्मि ॥ ४० ॥


देवेन्द्र - वन्द्य विदिताखिल-वस्तुसार

संसार - तारक विभो भुवनाधिनाथ ।

त्रायस्व देव करुणा-ह्रद मां पुनीहि

सीदन्तमद्य भयद- व्यसनाम्बुराशेः ॥४१ ॥


यद्यस्ति नाथ ! भवदङ्घ्रि- सरोरुहाणां

भक्तेः फलं किमपि सन्तत- सञ्चितायाः ।

तन्मे त्वदेक- शरणस्य शरण्य ! भूयाः

स्वामी त्वमेव भुवनेऽत्र भवान्तरेऽपि ॥४२ ॥


इत्थं समाहित-धियो विधिवज्जिनेन्द्र

सान्द्रोल्लसत्पुलक- कञ्चुकिताङ्ग-भागाः ।

त्वबिम्ब-निर्मल-मुखाम्बुज - बद्धलक्ष्या

ये संस्तवं तव विभो रचयन्ति भव्याः ॥४३॥

(आर्या छन्द)

जन-नयन-‘कुमुदचन्द्र’- प्रभास्वराः स्वर्ग-सम्पदो भुक्त्वा ।

ते विगलित-मल-निचया, अचिरान्मोक्षं प्रपद्यन्ते ॥४४ ॥

समाप्त 


Comments

Popular posts from this blog

रत्नकरण्ड श्रावकाचार I कर्त्ता आचार्य श्री समन्तभद्र स्वामी 

श्री इष्टोपदेश | आचार्य श्री पूज्यपाद स्वामी विरचित |