Posts

Showing posts with the label Saraswat strot

सरस्वती स्तोत्रं

Image
सरस्वती स्तोत्रं   सरस्वत्या: प्रसादेन, काव्यं कुर्वन्ति मानवा:। तस्मान्निश्चलभावेन, पूजनीया सरस्वती॥ 1॥   श्रीसर्वज्ञ-मुखोत्पन्ना, भारती बहुभाषिणी। अज्ञानतिमिरं हन्ति, विद्या बहुविकासनी॥ 2॥   सरस्वती मया दृष्टा, दिव्या कमललोचना। हंसस्कन्धसमारूढ़ा,वीणा-पुस्तकधारिणी॥ 3॥   प्रथमं भारती नाम, द्वितीयं च सरस्वती। तृतीयं शारदा देवी, चतुर्थं हंसगामिनी॥ 4॥   पंचमं विदुषां माता, षष्ठं वागीश्वरि तथा। कुमारी सप्तमं प्रोक्तं,अष्टमं ब्रह्मचारिणी॥ 5॥   नवमं च जगन्माता, दशमं ब्राह्मिणी तथा। एकादशं तु ब्रह्माणी, द्वादशं वरदा भवेत्॥ 6॥   वाणी त्रयोदशं नाम, भाषाचैव चतुर्दशं। पंचदशं च श्रुतदेवी, षोडशं गौर्निगद्यते॥ 7॥   एतानि श्रुतनामानि, प्रातरुत्थाय य: पठेत्। तस्य संतुष्यति माता, शारदा वरदा भवेत्॥ 8॥   सरस्वती नमस्तुभ्यं, वरदे कामरूपिणी। विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा॥ 9॥ ________________