लघु चैत्य भक्ति (वर्षेषु वर्षान्तरपर्वतेषु)
लघु चैत्य भक्ति (वर्षेषु वर्षान्तरपर्वतेषु) इन्द्रवज्रा वर्षेषु वर्षान्तरपर्वतेषु, नन्दीश्वरे यानि च मन्दरेषु । यावन्ति चैत्यायतनानि लोके, सर्वाणि वन्दे जिनपुङ्गवानाम् ॥ मालिनी अवनितल-गतानां कृत्रिमाकृत्रिमाणां, वन-भवन-गतानां दिव्य-वैमानिकानाम्। इह मनुज – कृतानां देवराजार्चितानां जिनवर-निलयानां भावतोऽहं स्मरामि॥ शार्दूलविक्रीडितम् जम्बूधातकि- पुष्करार्ध-वसुधा क्षेत्रत्रये ये भवा – श्चन्द्राम्भोजशिखण्डिकण्ठकनक प्रावृड्घनाभा जिनाः। सम्यग्ज्ञान – चरित्र – लक्षणधरा, ‘दग्धाष्टकर्मेन्धनाः, भूतानागत-वर्तमानसमये, तेभ्यो जिनेभ्यो नमः॥ स्रग्धरा श्रीमन्मेरौ कुलाद्रौ, रजतगिरिवरे, शाल्मलौ जम्बुवृक्षे वक्षारे चैत्यवृक्षे, रतिकर रुचके, कुण्डले मानुषाङ्के। इष्वाकारेऽञ्जनाद्रौ, दधिमुखशिखरे, व्यन्तरे स्वर्गलोके ज्योतिर्लोकेऽभिवन्दे, भुवनमहितले, यानि चैत्यालयानि॥ शार्दूलविक्रीडितम् द्वौ कुन्देन्दु तुषारहार धवलौ, द्वाविन्द्रनील प्रभौ, द्वौ बन्धूक- सम-प्रभौ जिनवृषौ द्वौ च प्रियङ्गुप्र...