इर्यापथ प्रतिक्रमण भक्ति
इर्यापथ प्रतिक्रमण भक्ति नि:सङ्गोऽहं जिनानां सदनमनुपमं त्रि:परीत्येत्य भक्त्या, स्थित्वा गत्वा निषद्योच्चरण-परिणतोऽन्त: शनैर्हस्तयुग्मम्। भाले संस्थाप्य बुद्ध्या मम दुरित-हरं कीर्तये शक्रवन्द्यं, निन्दादूरं सदाप्तं क्षयरहितममुं ज्ञानभानुं जिनेन्द्रम्॥ १॥ श्रीमत्पवित्रमकलङ्कमनन्तकल्पं , स्वायंभुवं सकलमङ्गलमादितीर्थम्। नित्योत्सवं मणिमयं निलयं जिनानां, त्रैलोक्यभूषणमहं शरणं प्रपद्ये॥ २॥ श्रीमत्परमगम्भीर, स्याद्वादामोघलांछनम्। जीयात् त्रैलोक्यनाथस्य शासनं जिनशासनम्॥ ३॥ श्री-मुखालोकनादेव, श्रीमुखालोकनं भवेत्। आलोकनविहीनस्य, तत् सुखावाप्तय: कुत:?॥ ४॥ अद्याभवत्सफलता नयनद्वयस्य, देव! त्वदीयचरणाम्बुजवीक्षणेन। अद्य त्रिलोकतिलक! प्रतिभासते मे, संसारवारिधिरयं चुलुकप्रमाण:॥ ५॥ अद्य मे क्षालितं गात्रं नेत्रे च विमलीकृते । स्नातोऽहं धर्मतीर्थेषु जिनेन्द्र! तव दर्शनात्॥ ६॥ नमो नम: सत्त्वहितंकराय, वीराय भव्याम्बुजभास्कराय। अनन्तलोकाय सुरार्चिताय, देवाधिदेवाय नमो जिनाय॥ ७ ॥ नमो जिनाय त्रिदशार्चिताय, विनष्टदोषाय गुणार्णवाय। विमुक्तिमार्गप्रतिबोधनाय,...