योगिभक्ति संस्कृत आचार्य पूज्यपाद स्वामी कृत
योगिभक्ति
१
जाति-जरोरू-रोग-मरणतुर-शोक-सहस्र-दीपिता,
दुःसह-नरक-पतन-संत्रस्त-धियः प्रतिबुद्ध-चेतसः।
जीवितमम्बु-बिन्दु-चपलं तडिद्भ्रसमा विभूतयः,
सकलमिदं विचिन्त्य मुनयः प्रशमाय वनान्तमाश्रिताः ॥१॥
भद्रिका
व्रतसमितिगुप्तिसंयुताः शिवसुखमाधाय मनसि वीतमोहाः।
ध्यानाध्ययनवशंगताः विशुद्धये कर्मणां तपश्चरन्ति ॥२॥
दुवई
दिनकरकिरण-निकर-संतप्त-शिलानिचयेषु निःस्पृहाः,
मलपट्टलाविलिप्त-तनवः शिथिलीकृत-कर्म-बन्धनाः।
व्यपगत-मदन-दर्प-रति-दोष-कषाय-विरक्त-मत्सराः,
गिरिशिखरेषु चण्डकरुणाभिमुखस्थितयो दिगम्बराः ॥३॥
भद्रिका
सज्ज्ञानामृतपायिभिः शान्तिपथैः सिद्ध्यमानपुण्यकायैः,
धृतसन्तोषच्छत्रकैरस्तापस्त्रीव्रोऽपि सह्यते मुनीन्द्रैः ॥४॥
दुवई
शिखिगलितकज्जलालि-मलिनैर् विभुधाधिप-चापचित्रितैः,
भीमर-वैरिवृष्ट-चण्डाशनि-शीतल-वायुवृष्टिभिः।
गगन-तलं विलोक्य जलदैः स्थगितं सहसा तपोधनाः,
पुनरपि तरुतलेषु विषमासु निशासु विश्राममासते ॥५॥
भद्रिका
जल-धाराशतादिता न चलन्ति चरिताः सदा मुनिसिंहाः।
संसार-दुःख-भीरवः परीषहाराति-घातिनः प्रवीराः ॥६॥
विषमजाति
अविरतबहल-तुहिन-कण-वारिभिरुद्घट-पत्र-पातने-
रनवरतमुक्तस्रोतकारवैः पुरैर्निले शोभितयात्रायष्टयः।
इह श्रमणा धृति-कम्बलावृता शिशिर-निशां,
तुषार-विषमां गमयन्ति चतुर्थे स्थिताः ॥७॥
भद्रिका
इत्योगत्रयधारिणः सकलतपःशालिनः प्रवृद्धपुण्यकायाः।
परमानन्दसुखेषिणः समाधिमग्र्यं दिशन्तु नो भद्रन्ताः ॥८॥
अंचलिका (प्राकृत)
इच्छामि भंते! योगिभत्तिकाउस्सग्गो काउं तस्सालोचउं अड्डा-
इज्जदिव-दोसविसुद्धी, पण्णास-कम्म-भूमिसु, आदावण-रुक्खमूल-
अलोवासठाण-मोण-वीरासण-ठाणकाउण-कुक्कुडासण-चउउ-पव्वत
खवणादि-जोगजुत्ताणं, सव्वसाहूणं गिण्हकालं अच्चेमि, पूजेमि,
वंदामि, णमस्सामि, दुक्खखओ, कम्मखओ, बोधिलाहो, सुगइ-
गमणं, समाहिमरणं, जिणगुण-संपत्ति होउ मज्झं।
───

Comments
Post a Comment