जिन चतुर्विंशिका
जिन चतुर्विंशिका श्रीलीलायतनं महीकुलगृहं, कीर्तिप्रमोदास्पदम् वाग्देवीरतिकेतनं जयरमा, क्रीडानिधानं महत्। स स्यात्सर्वमहोत्सवैकभवनं, य: प्रार्थितार्थप्रदं प्रात: पश्यति कल्पपादपदलच्छायं जिनाङ्घ्रिद्वयम्॥ १ शान्तं वपु: श्रवणहारि वचश्चरित्रं सर्वोपकारि तव देव तत: श्रुतज्ञा:। संसारमारवमहास्थलरुन्द्रसान्द्र च्- छायामहीरुह भवन्तमुपाश्रयन्ते॥ २॥ स्वामिन्नद्य विनिर्गतोऽस्मि जननी, गर्भान्धकूपोदरा- दद्योद्घाटितदृष्टिरस्मि फलवज्जन्मास्मि चाद्य स्फुटम्। त्वामद्राक्षमहं यदक्षयपदा, नन्दाय लोकत्रयी- नेत्रेन्दीवरकाननेन्दुममृतस्यन्दिप्रभाचन्द्रिकम्॥ ३॥ नि:शेषत्रिदशेन्द्रशेखरशिखा, रत्नप्रदीपावली- सान्द्रीभूतमृगेन्द्रविष्टरतटी, माणिक्यदीपावलि:। क्वेयं श्री: क्व च नि:स्पृहत्वमिदमि-त्यूहातिगस्त्वादृश: सर्वज्ञानदृशश्चरित्रमहिमा, लोकेश! लोकोत्तर:॥ ४॥ राज्यं शासनकारिनाकपति, यत्त्यक्तं तृणावज्ञया हेलानिर्दलितत्रिलोकमहिमा, यन्मोहमल्लो जित:। लोकालोकमपि स्वबोधमुकुरस्यान्त:कृतं यत्त्वया सैषाश्चर्यपरम्परा जिनवर! क्वान्यत्र सम्भाव्यते॥ ५॥ ...