नंदीश्वर भक्ति संस्कृत
नंदीश्वर भक्ति संस्कृत त्रिदशपतिमुकुट तट गतमणि, गणकर निकर सलिलधाराधौत। क्रमकमलयुगलजिनपति रुचिर, प्रतिबिम्बविलय विरहितनिलयान्॥ १॥ निलयानहमिह महसां सहसा, प्रणिपतन पूर्वमवनौम्यवनौ। त्रय्यां त्रय्या शुद्ध्या निसर्ग, शुद्धान्विशुद्धये घनरजसाम्२॥ भावनसुर-भवनेषु, द्वासप्तति-शत-सहस्रसंख्याभ्यधिका:। कोट्य: सप्त प्रोक्ता, भवनानां भूरि-तेजसां भुवनानाम्३॥ त्रिभुवन-भूत-विभूनां, संख्यातीतान्यसंख्य-गुण-युक्तानि। त्रिभुवनजननयनमन:,प्रियाणिभवनानिभौमविबुधनुतानि॥ ४॥ यावन्ति सन्ति कान्त-ज्योति-र्लोकाधिदेवताभिनुतानि। कल्पेऽनेक-विकल्पे, कल्पातीतेऽहमिन्द्र-कल्पानल्पे॥ ५॥ विंशतिरथ त्रिसहिता, सहस्र-गुणिता च सप्तनवति: प्रोक्ता। चतुरधिकाशीतिरत:, पञ्चकशून्येन विनिहतान्यनघानि॥ ६॥ अष्टापञ्चाशदतश्-चतु:शतानीह मानुषे च क्षेत्रे। लोकालोकविभागप्रलोकनाऽऽलोक-संयुजां जयभाजाम्॥ ७॥ नव-नव-चतु:शतानि च, सप्त च नवति: सहस्र-गुणिता: षट् च। पञ्चाशत्पञ्च-वियत्, प्रहता: पुनरत्र कोटयोऽष्टौ प्रोक्ता:॥ ८॥ एतावन्त्येव सता-मकृत्रि-माण्यथ जिनेशिनां भवनानि। भुवनत्रितये...